गुरुवार, 31 दिसंबर 2009

संकष्‍टनाशनंगणेशस्‍तोत्रम्

Written By उदयन पी.के. तुळजापूरकर
एक भारतीय
Udayan P.K. Tuljapurkar
Indian on गुरुवार, 31 दिसंबर 2009 | 12:00 pm

श्री गणेशाय नम:। नारद उवाच। प्रणम्‍य शि‍रसा देवं गौरीपुत्रं वि‍नायकम्। भक्‍तावासंस्‍मरेन्‍नि‍त्‍यमायु: कामार्थसि‍द्धये॥१॥ प्रथमं वक्रतुण्‍डं च एकदन्‍तं द्वि‍तीयकम्। तृतीयं कृष्‍णपि‍ग्‍डाक्षं गजवक्र चतुर्थकम्॥२॥ लम्‍बोदरं पश्र्चमं च षष्‍ठं वि‍कटमेव च। सप्‍तमं वि‍न्हराजं च धूम्रवर्ण तथाऽष्‍टमम्॥३॥ नवमं भालचन्‍द्रं च दशमं तु वि‍नायकम्। एकादशं गणपतिं द्वादशं तु गजाननम्॥४॥ द्वादशैतानि‍ नामानि‍ त्रि‍संन्‍ध्‍यं य: पठेन्‍नर:। न च वि‍घ्‍नभयं तस्‍य सर्वसि‍द्धि‍करं प्रभो॥५॥ वि‍द्यार्थी लभते वि‍द्यां धनार्थी लभते धनम्। पुत्रार्थी लभते पुत्रान्‍मोक्षार्थी लभते गति‍म्॥६॥ जपेग्‍दगणपति‍स्‍तोत्रं षड् भि‍र्मासै: फलं लभेत्। संवत्‍सरेण सि‍द्धिं च लभते नात्र संशय:॥७॥ अष्‍टाभ्‍यो ब्राह्मणेभ्‍यश्र्च लि‍खि‍त्‍वा य: समर्पयेत्। तस्‍य वि‍द्या भवेत्‍सर्वां गणेशस्‍य प्रसादत:॥८॥
इति‍ श्रीनारदपुराणे संकष्‍टनाशनं नाम गणेशस्‍तोतं संपुर्णम्।

0 टिप्पणियाँ:

एक टिप्पणी भेजें